|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.57. अध्यायः 057
Mahabharata - Virata Parva - Chapter Topics
अर्जुनस्य भीष्मद्रोणादिभिः सह युद्धम् ॥ 1 ॥ अर्जुनेन कर्णस्य पराभवः ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-57-0x(3228)(30676)
अश्वत्थामा ततस्तत्र कर्णं संप्रेक्ष्य वीर्यवान्।
उवाच स्मयमानोऽसौ सूतपुत्रमरिन्दमम् ॥ 4-57-1(30677)
कर्ण यस्त्वं सभामध्ये बह्वबद्धं विकत्थसे।
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम् ॥ 4-57-2(30678)
एषोऽन्तक इव क्रुद्धः सर्वभूतावमर्दनः ।
संग्रामशिरसो मध्ये दृम्भते केसरी यथा ॥ 4-57-3(30679)
शूरोसि यदि संग्रामे दर्शयस्व सभां विना ॥ 4-57-4(30680)
यद्यशक्तोसि संग्रामे पार्थेनाद्भुतकर्मणा।
पुनरेव सभां गत्वा धार्तराष्ट्रेण धीमता।
मातुलं परिगृह्याशु मन्त्रयस्व यथासुखम् ॥ 4-57-5(30681)
वैशम्पायन उवाच। 4-57-6x(3229)
एवमुक्तस्तथा कर्णः क्रोधादुद्वृत्य लोचने।
द्रोणपुत्रमिदं वाक्यमुवाच कुरुसन्निधौ ॥ 4-57-6(30682)
नाहं बिभेमि बीभत्सोर्न कृष्णाद्देवकीसुतात् ।
पाण्डवेभ्योपि सर्वेभ्यः क्षत्रधर्ममनुव्रतः ॥ 4-57-7(30683)
सत्वाधिकानां पुंसां तु धनुर्वेदोपजीविनाम् ।
गर्जतां जायते दर्पः स्वरश्च न विषीदति ॥ 4-57-8(30684)
पश्यत्वाचार्यपुत्रो मामर्जुनेनातिरंहसा ।
युध्यमानं सुसंयुक्तं जयो वै मय्यवस्थितः ॥ 4-57-9(30685)
वैशम्पायन उवाच। 4-57-10x(3230)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं विकुर्वाणः प्रत्ययाद्रथिसत्तमः ॥ 4-57-10(30686)
महात्मानं मन्दबुद्धिर्निश्वसन्धृतराष्ट्रजः।
उवाच स महाराज राजा दुर्योधनस्तदा ॥ 4-57-11(30687)
न विद्मो ह्यर्जुनं तत्र वसन्तं मत्स्यवेश्मनि ।
तेनेदं कर्ण मत्स्यानामग्रहीष्म धनं बहु ॥ 4-57-12(30688)
एवं चेत्तर्हि गच्छामो विसृजन्तो धनं बहु ।
अयशो नातिवर्तेत लोकयोरुभयोरपि ॥ 4-57-13(30689)
किं च युद्धात्परं नास्ति क्षत्रियाणां सुखावहम्।
तस्मात्पार्थेन संग्रामं कुर्महे न पलायनम् ॥ 4-57-14(30690)
एतावदुक्त्वा राजा वै ह्यभियानमियेष सः।
तथा दशसहस्राणि वीराणां हि धनुष्मताम् ।
अभ्यद्रवंस्तदा पार्थं शलभा इव पावकम् ॥ 4-57-15(30691)
वर्मिता वाजिनस्तत्र संभृताश्च पदातिभिः ।
भीमरूपाश्च मातङ्गास्तोमराङ्कुशपाणिभिः । 4-57-16(30692)
अधिष्ठिताः सुसंयत्तैर्हस्तिशिक्षाविशारदैः।
अभ्यद्रवन्सुसंक्रुद्धाश्चापहस्तोद्यतायुधाः ॥ 4-57-17(30693)
पञ्च चैनं रथोदग्रास्त्वरिताः पर्यवारयन्।
द्रोणो भीष्मश्च कर्णश्च कुरुराजश्च वीर्यवान् ॥ 4-57-18(30694)
अश्वत्थामा महाबाहुर्धनुर्वेदपरायणः।
इषूंश्च सम्यगस्यन्तो जीमूता इव वार्षिकाः ॥ 4-57-19(30695)
ते लाभमिव मन्वानाः प्रत्यगृह्णन्धनंजयम्।
शरौघानभिवर्षन्तो नादयन्तो दिशो दश ॥ 4-57-20(30696)
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः।
दिव्यमस्त्रं प्रकुर्वाणः प्रत्ययाद्रथिसत्तमान् ॥ 4-57-21(30697)
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम्।
तथा गाण्डीवनिर्मुक्तैः शरैराच्छादयद्दिशः ॥ 4-57-22(30698)
न रथानां न चाश्वानां न ध्वजानां न वर्मिणाम्।
अतिविद्धैः शितैर्बाणैरासीदद्व्यङ्गुलिरन्तरम् ॥ 4-57-23(30699)
दैवयोगाद्धि पार्थस्य हयानामुत्तरस्य च।
शिक्षाबलोपपन्नत्वादस्त्राणां वै परिक्रमात्।
ध्वजगाण्डीवयोश्चापि दैव्या शक्त्या च मायया ॥ 4-57-24(30700)
इतस्ततश्च संयाने दूरे वाऽप्यथवाऽन्तिके।
दुर्गे विषमजाते वा स्थले निम्ने तथा क्षितौ।
न च रुध्येद्गतिस्तस्य रथस्य मनसो यथा ॥ 4-57-25(30701)
समरेषु तु विद्वांसस्तस्य तांस्तान्परिक्रमान्।
वीर्यमत्यद्भुतं दृष्ट्वा तथा पार्थस्य तद्बलम् ।
त्रेसुरेवं परे भीताः पराङ्मुखरथा अपि। 4-57-26(30702)
कालाग्निमिव बीभत्सुं निर्दहन्तमिव प्रजाः ।
नारयः प्रेक्षितुं शेकुर्ज्वलन्तमिव पावकम् ॥ 4-57-27(30703)
तानि भिन्नान्यनीकानि रेजुरर्जुनमार्गणैः।
तिग्मांशोश्च घनाभ्राणि व्याप्तानीव गभस्तिभिः ॥ 4-57-28(30704)
अशोकाना वनानीव सञ्चितैः कुसुमैः शुभैः ।
पार्थः संरञ्जयामास रुधिरेणाकुलं बलम् ॥ 4-57-29(30705)
सहस्रशोऽर्जुनशरैश्छिन्नान्युच्चावचानि च।
छत्राणि च पताकाश्च खेऽभ्युवाह सदागतिः ॥ 4-57-30(30706)
ये ह्यर्जुनबलत्रस्ताः परिपेतुर्दिशो दश।
रथात्तं देशमुत्सृज्य पार्थच्छिन्नयुगा हयाः ॥ 4-57-31(30707)
निकृत्तपूर्वचरणास्ते निपेतुः शितैः शरैः।
शिरोभिः प्रथमं जग्मुर्मेदिनीं जघनैर्हयाः ॥ 4-57-32(30708)
चक्षुर्नासाविषाणेषु दन्तवेष्टेषु च द्विपान्।
मर्मस्वन्येषु चाहत्य तथा निघ्नन्गजोत्तमाः ॥ 4-57-33(30709)
कौरवाणां गजानां च शरीरैर्गतचेतसाम् ।
क्षणेन संवृता भूमिर्मेघैरिव नभस्थलम् ॥ 4-57-34(30710)
अस्त्रैर्दिव्यैर्महाबाहुरर्जुनः प्रहसन्निव ।
बडबामुखसंभूतः कालाग्निरिव संवृतः ॥ 4-57-35(30711)
यथा युगान्तसमये सर्वं स्थावरजङ्गमम् ।
कालपक्वमशेषेण धक्ष्येदुग्रशिखः शिखी ॥ 4-57-36(30712)
तद्वत्पार्थोऽस्रतेजोभिर्धनुषो निस्वनेन च।
दैवाद्वीर्याच्च बीभत्सुस्तस्मिन्दौर्योधने बले ॥ 4-57-37(30713)
रणे शक्तिममित्राणां प्रणीयोपनिनाय सः।
चेष्टां प्रायेण भूतानां रात्रिः प्राणभृतामिव ॥ 4-57-38(30714)
सोऽतीयात्सहसा शत्रून्सहसा तेऽभिपेदिरे ।
शीघ्रादूरं दृढामोघमस्त्रमस्यातिमानुषम् ।
दृष्ट्वा ते कौरवा भीता अतिमानुषविक्रमम् ॥ 4-57-39(30715)
खगपत्राभिसंवीतैः खाविष्टैः खगमैरिव।
अर्जुनस्य खमावव्रे लोहितप्राणपैः खगैः ॥ 4-57-40(30716)
अर्जुनेन विनिर्मुक्ताः शरा गाण्डीवधन्वना ।
तार्क्ष्यवेगा इवाकाशे ससञ्जुः परमर्मसु ॥ 4-57-41(30717)
वर्माणि सारथिश्चैव हेमजालानि वाजिनाम् ।
किरीटं सूर्यसंकाशं वैयाघ्रमथ चर्म च ॥ 4-57-42(30718)
ततः सर्वाणि गात्राणि रथस्य द्विषतां शरैः ।
नीहारेणेव भूतानि छन्नानीह चकाशिरे॥ 4-57-43(30719)
सकृदेव न तं शेकुः कथमभ्यसितुं परे ।
अनभ्यस्तः पुनस्तैर्हि रथः सोभिपपात तान् ॥ 4-57-44(30720)
तच्छरा द्विट्शरीरेषु यथा च न ससञ्जिरे ।
द्विधाऽनीकेषु बीभत्सोर्न ससञ्ज रथस्तथा ॥ 4-57-45(30721)
स तद्धि क्षोभयामास विगाह्यारिबलं रथी।
अनन्तवेगो भुजगः क्रीडन्निव महार्णवे ॥ 4-57-46(30722)
अस्यतो नित्यमत्यर्थं सर्वघोषाधिकस्तथा ।
संनादः श्रूयते भूतैर्धनुषश्च किरीटिनः ॥ 4-57-47(30723)
संच्छिन्नास्तत्र मातङ्गा बाणैरल्पान्तरान्तरैः।
संस्यूतास्तत्र दृश्यन्ते मेघा इव गभस्तिभिः ॥ 4-57-48(30724)
दिशोऽनुभ्रमतः सर्वा सव्यदक्षिणमस्यतः।
सततं दृश्यते युद्धे सायकासनमण्डलम् ॥ 4-57-49(30725)
पतन्त्यरूपेषु यथा चक्षूंषि न कदाचन।
नालक्ष्येषु शराः पेतुस्तस्य गाण्डीवधन्वनः ॥ 4-57-50(30726)
महागजसहस्रस्य युगपन्मृद्गतो वनम्।
कौन्तेयरथमार्गस्तु रणे घोरतरोऽभवत् ॥ 4-57-51(30727)
नूनं पार्थजयैषित्वाच्छक्रः सर्वामरैः सह।
हन्त्यस्मानिति मन्यन्ते पार्थेनैवार्दिताः परे ॥ 4-57-52(30728)
घ्नन्तमत्यर्थमहितान्सव्यसाचिनमाहवे।
कालमर्जुनरूपेण ग्रसन्तमिव च प्रजाः ॥ 4-57-53(30729)
कुरुसेनाशरीराणि पार्थेनानाहतान्यपि ।
पेतुः पार्थहतानीव पार्थकर्मानुदर्शनात् ॥ 4-57-54(30730)
ओषधीनां शिरांसीव कालपक्तिसमन्वयात्।
अवनेमुः कुरूणां हि शिरांस्यर्जुनजाद्भयात् ॥ 4-57-55(30731)
चकार चार्जुनः क्रोधाद्विमुखान्रुषितानपि ॥ 4-57-56(30732)
अर्जुनेनापि भिन्नानि बलाग्नाणि पुनः क्वचित्।
चक्रुर्लोहितधाराभिर्धरणीं लोहितोत्तराम् ॥ 4-57-57(30733)
लोहितेनापि संपृक्तैः पांसुभिः पवनोद्धतैः ।
तेनैव च समुद्धूतैः सूक्ष्मैर्लोहितबिन्दुभिः ॥ 4-57-58(30734)
लोहितार्द्रैः प्रहरणैः प्रभग्ना लोहितोक्षिताः।
लोहितेषु निमग्नास्ते निहताश्च किरीटिना ॥ 4-57-59(30735)
बभूवुर्लोहितास्तत्र भृशमादित्यरश्मयः।
आकाशं तत्क्षणेनासीत्सन्ध्याभ्रमिव लोहितं ॥ 4-57-60(30736)
अप्यस्तं प्राप्य चादित्यो निवर्तेत न पाण्डवः।
निवर्तन्ते न जित्वारिं नित्यजल्पविचक्षणाः ॥ 4-57-61(30737)
तान्सर्वान्समरे शूरान्पौरुषे पर्यवस्थितान्।
दिव्यैरस्त्रैरमोघात्मा सर्वानार्च्छद्धनुर्धरान् ॥ 4-57-62(30738)
स तु द्रोणं त्रिसप्तत्या नाराचानां समार्पयत्।
अशीत्या शकुनिं चैव द्रौणिमप्याशु सप्तभिः ॥ 4-57-63(30739)
दुःसहं दशभिर्बाणैरर्जुनः समविध्यत ।
दुश्यासनं द्वादशभिः कृपं शारद्वतं त्रिभिः।
भीष्मं शान्तनवं षष्ट्या प्रत्यविध्यत्स्तनान्तरे ॥ 4-57-64(30740)
स कर्णं कर्णिनाऽविध्यत्पीतेन निशितेन च।
वासविर्द्विषतां मध्ये विव्याध परमेषुणा ॥ 4-57-65(30741)
स कर्णं सतनुत्राणं निर्भिद्य निशितः शरः।
अगच्छद्दानयन्भूमिं चोदितो दृढधन्वना ॥ 4-57-66(30742)
ततोऽस्य वाहान्व्यहनच्चतुर्भिश्चतुरः क्षुरैः ।
सारथेश्च शिरः कायादपाहरदरिन्दमः ।
अर्धचन्द्रेण चिच्छेद चापं तस्य करे स्थितम् ॥ 4-57-67(30743)
तस्मिन्विद्धे महाभागे कर्णे सर्वास्त्रपारगे।
हताश्वसूते विरथे ततोऽनीकमभज्यत ॥ ॥ 4-57-68(30744)

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|